श्रीविश्वनाथाष्टकम्

Posted by

गंगातरंगरमणीयजटाकलापं

गौरीनिरन्तरविभूषितवामभागम्।

नारायणप्रियमनंगमदापहारं

वाराणसीपुरपतिं भज विश्वनाथम्।।1।।

 

वाचामगोचरमनेकगुणस्वरूपं

वागीशविष्णुसुरसेवितपादपीठम्।

वामेन विग्रहवरेण कलत्रवन्तं । वाराणसी0 ।।2।।

 

भूताधिपं              भुजगभूषणभूषितांग

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।

पाशाड़्कुशाभयवरप्रदशूलपाणिं । वाराणसी0 ।।3।।

 

शीतांशुशोभितकिरीटविराजमानं

भालेक्षणानलविशोषितपंचबाणम्।

नागाधिपारचितभासुरकर्णपूरं । वाराणसी0 ।।4।।

 

पंचाननं दुरितमत्तमतंगजानां

नागान्तकं दनुजपुंगवपन्नगानाम्।

दावानलं  मरणशोकजराटवीनां । वाराणसी0 ।।5।।

 

तेजोमयं सगुणनिर्गुणमद्वितीय-

मानन्दकन्दमपराजितमप्रमेयम्।

नागात्मकं सकलनिष्कलमात्मरूपं । वाराणसी0 ।।6।।

 

रागादिदोषरहितं स्वजनानुरागं

वैराग्यशान्तिनिलयं गिरिजासहायम्।

माधुर्यधैर्यसुभगं    गरलाभिरामं । वाराणसी0 ।।7।।

 

आशां विहाय परिहृत्य परस्य निन्दां

पापे  रतिं च सुनिवार्य मन: समाधौ।

आदाय हृत्कमलमध्यगतं परेशं । वाराणसी0 ।।8।।

 

वाराणसीपुरपते:   स्तवनं   शिवस्य

व्याख्यातमष्टकमिदं पठते मनुष्य:।

विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं

सम्प्राप्य देहविलये लभते च मोक्षम्।।9।।

 

विश्वनाथाष्टकमिदं  य:  पठेच्छिवसन्निधौ।

शिवलोकमवाप्नोति   शिवेन   सह   मोदते।।10।।

 

इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं सम्पूर्णम्।