केतुपंचविंशतिनामस्तोत्रम

Posted by

ketu

केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः।

लोककेतुर्महाकेतुः सर्वकेतुर्भगप्रदः॥१॥

रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक्।

पलालधूमसङ्काशश्चित्रयज्ञोपवीतधृक्॥२॥

तारागणविमर्दी च जैमिनेयो ग्रहाधिपः।

गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः॥३॥

प्रव्राज्यदो ज्ञानदश्च तीर्थयात्राप्रवर्तकः।

पञ्चविंशतिनामानि केतोर्यः सततं पठेत्॥४॥

प्रव्राज्यदो ज्ञानदश्च तीर्थयात्राप्रवर्तकः।

पञ्चविंशतिनामानि केतोर्यः सततं पठेत्॥४॥

 

॥इति श्री स्कान्दपुराणे श्री केतुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम्॥

Leave a Reply