राहुपञ्चविंशतिनामस्तोत्रम

Posted by

राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः ।

अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ।।1।।

रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिद:।

ग्रहराजः सुधापायी राकातिथ्यभिलाषुक: ।।2।

कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रय: ।

विधुन्तुदः सैंहिकेयो घोररूपो महाबल: ।।3।।

ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदर: ।

पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नर: ।।4।।

यः पठेन्महती पीडा तस्य नश्यति केवलम् ।

आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ।।5।।

ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् ।

सततं पठते यस्तु जीवेद्वर्षशतं नर: ।।6।।

 

श्रीस्कन्दपुराणे श्री राहुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम

Leave a Reply