यह श्री सूक्तं ऋग्वेद से लिया गया है.
ऊँ हिरण्यवर्णा हरिणीं सुवर्णरजतस्त्रजाम । हिरण्मयीं लक्ष्मीं जात्वेदो म आ वह ।।
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम । यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम ।।
अश्वपूर्वा रथमध्यां हस्तिनाद-प्रमोदिनीम । श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम ।।
कां सोस्मितां हिरण्यप्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीम ।
पद्मेस्थितां पद्मवर्णा तामिहोप ह्वये श्रियम ।।
चंद्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम ।
तां पद्मिनीमीं शरणमहं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ।।
आदित्वर्णे तपसोsधि जातो वनस्पतिस्तव वृक्षोsथ बिल्व: ।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मी: ।।
उपैतु मां देवसख: कीर्तिश्च मणिना सह ।
प्रादुर्भूतोsस्मि राष्ट्रेsस्मिन कीर्तिमृद्धिं ददातु मे ।।
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम ।
अभूतिमसमृद्धिं च सर्वा निर्णुद मे गृहात ।।
गन्धद्वारां दुराधर्षा नित्यपुष्टां करीषिणीम ।
ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम ।।
मनस: काममाकूतिं वाच: सत्यमशीमहि ।
पशूनां रूपमन्नस्य मयि श्री: श्रयतां यश: ।।
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम ।।
आप: सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ।।
आर्द्रा पुष्कराणीं पुष्टिं पिंगलां पद्ममालिनीम ।
चन्द्रां हिरण्यमयीं लक्ष्मीं जातवेदो म आ वह ।।
आर्द्रा य: करिणीं यष्टिं सुवर्णां हेममालिनीम ।
सूर्या हिरण्यमयीं लक्ष्मीं जातवेदो म आ वह ।।
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम ।
यस्यां हिरण्यं प्रभूतं गावो दास्योsश्वान, विन्देयं पुरुषानहम ।।
य: शुचि: प्रयतो भूत्वा जुहुयादाज्यमन्वहम ।
सूक्तं पंचदशर्च च श्रीकाम: सततं जपेत ।।
पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षी ।
विश्वप्रिये विष्णु मनोsनुकूले त्वत्पादपद्मं मयि सं नि धत्स्व ।।
पद्मानने पद्मऊरु पद्माक्षि पद्मसम्भवे ।
तन्मे भजसि पद्माक्षि येन सौख्यं लभाम्यहम ।।
अश्वदायी गोदायी धनदायी महाधने ।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे ।।
पुत्रपौत्रधनं धान्यं हस्त्यश्वाश्वतरी रथम ।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे ।।
धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसु: ।
धनमिन्द्रो बृहस्पतिर्वरुणो धनमश्विना ।।
वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन: ।।
न क्रोधो न च मात्सर्य न लोभो नाशुभा मति: ।
भवन्ति कृतपुण्यानां भक्त्या श्रीसूक्तजापिनाम ।।
सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम ।।
विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम ।
लक्ष्मीं प्रियसखीं भूमिं नमाम्यच्युतवल्लभन ।।
महालक्ष्मै च विद्महे विष्णुपत्न्यै च धीमहि । तन्नो लक्ष्मी: प्रचोदयात ।।
आनन्द: कर्दम: श्रीदश्चिक्लीत इति विश्रुता: ।
ऋषय: श्रिय: पुत्राश्च श्रीर्देवीर्देवता मता: ।।
ऋणरोगादिदारिद्रयपापक्षुदपमृत्यव: ।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा ।।
श्रीर्वर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते ।
धनं धानं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायु: ।।