अगस्तिरुवाच – Agastiruvach
मातर्नमामि कमले कमलायताक्षि
श्रीविष्णुहृत्कमलवासिनि विश्वमात:।
क्षीरोदजे कमलकोमलगर्भगौरि
लक्ष्मि प्रसीद सततं नमतां शरण्ये।।1।।
त्वं श्रीरुपेन्द्रसदने मदनैकमात –
र्ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरास्ये।
सूर्ये प्रभासि च जगत्त्रितये प्रभासि
लक्ष्मि प्रसीद सततं नमतां शरण्ये।।2।।
त्वं जातवेदसि सदा दहनात्मशक्ति –
र्वेधास्त्वया जगदिदं विविधं विदध्यात्।
विश्वम्भरोSपि बिभृयादखिलं भवत्या
लक्ष्मि प्रसीद सततं नमतां शरण्ये।।3।।
त्वत्त्यक्तमेतदमले हरते हरोSपि
त्वं पासि हंसि विदधासि परावरासि।
ईड्यो बभूव हरिरप्यमले त्वदाप्त्या
लक्ष्मि प्रसीद सततं नमतां शरण्ये।।4।।
शूर: स एव स गुणी स बुध: स धन्यो
मान्य: स एव कुलशीलकलाकलापै:।
एक: शुचि: स हि पुमान् सकलेSपि लोके
यत्रापतेत्तव शुभे करुणाकटाक्ष: ।।5।।
यस्मिन्वसे: क्षणमहो पुरुषे गजेSश्वे
स्त्रैणे तृणे सरसि देवकुले गृहेSन्ने।
रत्ने पतत्रिणि पशौ शयने धरायां
सश्रीकमेव सकले तदिहास्ति नान्यत्।।6।।
त्वत्स्पृष्टमेव सकलं शुचितां लभेत
त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि।
त्वन्नाम यत्र च सुमंगलमेव तत्र
श्रीविष्णुपत्नि कमले कमलालयेSपि।।7।।
लक्ष्मीं श्रियं च कमलां कमलालयां च
पद्मां रमां नलिनयुग्मकरां च मां च।
क्षीरोदजाममृतकुम्भकरामिरां च
विष्णुप्रियामिति सदा जपतां क्व दु:खम।।8।।
ये पठिष्यन्ति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा।
तेषां कदाचित् संतापो माSस्तु माSस्तु दरिद्रता।।9।।
माSस्तु चेष्टवियोगश्च माSस्तु सम्पत्तिसंक्षय:।
सर्वत्र विजयश्चाSस्तु विच्छेदो माSस्तु सन्तते:।।10।।
एवमSस्तु मुने सर्वं यत्त्वया परिभाषितम्।
एतत् स्तोत्रस्य पठनं मम सांनिध्यकारणम्।।11।।
।।इति श्रीस्कन्दमहापुराणे काशीखण्डे अगस्तिकृता महालक्ष्मीस्तुति: सम्पूर्णा।।