इस स्तोत्र में 11वें श्लोक से 13वें श्लोक तक करन्यास, हृदयन्यास, अंगन्यास बताया गया है, जिसको विस्तार से दिया गया है. 18वें से 23वें श्लोक तक श्रावण मास से आषाढ़ तक शनि के विभिन्न नाम दिए गए हैं. 24वाँ श्लोक पक्ष से संबंधित है. 27वें श्लोक से 38वें श्लोक तक नक्षत्र के आधार पर शनि के नाम बताए गए हैं और साथ ही अंगों में वास बताया गया है. 38वें श्लोक से 51वें श्लोक तक योग के आधार पर शनि के नाम बताए गए हैं.
52वें श्लोक से 57वें श्लोक तक करण तथा मुहूर्त के नाम पर शनि के नाम बताए गए हैं. 58वाँ श्लोक शनि के विशेष नाम से “नमन” के रुप में है. 59वें श्लोक में छायापुत्र होने के कारण “अयोनिकम्” विशेषण से विशिष्टता दर्शाई गई है. 60वें श्लोक में बताया गया है कि लग्न में शनि आयुष्य अर्थात आयु देता है. शनि अगर मार्गी है तब शुभ है लेकिन वक्री होने पर शनि की दृष्टि क्रूर मानी गई है. 64वें व 65वें श्लोक में स्वग्रही, मित्र तथा उच्च राशि के शनि का वर्णन है.
66वें श्लोक से 69वें श्लोक तक वार के आधार पर शनि के नाम बतलाए गए हैं. 70वें श्लोक से 87वें श्लोक तक शनि की विशेष स्तुति की गई है. 85वें श्लोक से 101वें श्लोक तक इस स्तोत्र के माहात्म्य को बतलाया गया है.
यदि कभी समय का अभाव हो तब श्लोक 70 से लेकर 87 तक जो शनि की विशिष्ट स्तुति दी गई है, उसका ही पाठ करने मात्र से शनिदेव प्रसन्न हो जाते हैं. ऋषिन्यास, करन्यास आदि करने के बाद 1 से 10 तक के श्लोकों का पठन करके उसके बाद 70 से लेकर 101 तक के श्लोकों का पाठ करें.
श्री मार्तण्ड भैरव तंत्र में इस “महाकाल शनि मृत्युजंय स्तोत्र” की महिमा का अद्भुत वर्णन मिलता है.
ध्यानम्
पहले श्लोक से दसवें श्लोक तक ध्यान के श्लोक हैं जिनका पाठ किया जाना चाहिए.
विनियोग
ऊँ अस्य श्रीमहाकाल शनिमृत्युंजय स्तोत्रमंत्रस्य पिप्पलाद ऋषि: अनुष्टुपछन्द: महाकालशनिदेवता शं बीजम् आयसीशक्ति: कालपुरुषम् इति कीलकं मम अथवा मम यजमानस्य अकालअपमृत्युनिवारणार्थे पाठे विनियोग: ।
इसके बाद पंचपात्र में रखा हुआ शुद्ध जल पृथ्वी पर आचमनी के द्वारा छोड़ दें.
ऋष्यादिन्यास
ऊँ पिप्पलादऋषये नम: शिरसि । ऊँ अनुष्टुपछन्दसे नम: मुखे । ऊँ महाकालशनि देवतायै नम: हृदे । ऊँ शं बीजाय नम: गुह्ये । ऊँ आयसी शक्तये नम: पादयो: । ऊँ कालपुरुषं कीलकाय नम: नाभौ । ऊँ विनियोगाय नम: सर्वांगे ।
करन्यास
ऊँ खां अंगुष्ठाभ्यां नम: । ऊँ खीं तर्जनीभ्यां नम: । ऊँ खौं मध्यमाभ्यां नम: । ऊँ स: अनामिकाभ्यां नम: । ऊँ भुर्भुव: स्व: कनिष्ठिकाभ्यां नम: ऊँ शन्नोदेवीरभिष्टय आपोभवन्तु पीतये । शंत्र्योरभिस्त्रवन्तु न: ऊँ शनैश्चराय नम: करतलकरपृष्ठाभ्यां नम: ।
अथवा
ऊँ पिप्पलादऋषये नम: अंगुष्ठाभ्यां नम: । ऊँ अनुष्टुपछन्दसे नम: तर्जनीभ्यां नम: । ऊँ महाकालशनिदेवतायै नम: मध्यमाभ्यां नम: । ऊँ शं बीजाय नम: अनामिकाभ्यां नम: । ऊँ आयसी शक्तये नम: कनिष्ठिकाभ्यां नम: । ऊँ कालपुरुषं कीलकाय नम: करतलकरपृष्ठाभ्यां नम: ।
हृदयन्यास
ऊँ खां हृदयाय नम: । ऊँ खीं शिरसे स्वाहा । ऊँ खौं शिखायै वषट । ऊँ स: कवचाय हुम् । ऊँ भूर्भुव: स्व: नेत्रत्रयाय वौषट । ऊँ शन्नोदेवीरभिष्टय आपोभवन्तु पीतये । शंत्र्योरभिस्त्रवन्तु न: ऊँ शनैश्चराय नम: अस्त्राय फट् ।
अथवा
ऊँ पिप्पलादऋषये हृदयाय नम: । ऊँ अनुष्टुपछन्दसे शिरसे स्वाहा । ऊँ महाकालशनिदेवतायै शिखायै वषट् । ऊँ शं बीजे कवचाय हुम् । ऊँ आयसी शक्तये नेत्रत्रयाय वौषट् । ऊँ कालपुरुषाय अस्त्राय फट् ।
देहन्यास
ऊँ महोग्रं मूर्घ्नि । ऊँ वैवस्वतं मुखे । ऊँ मन्दं गले । ऊँ महाग्रहं बाहवो: । ऊँ महाकालं हृदये । ऊँ कृशतनुं गुह्ये । तुडुचरं जान्वो । ऊँ शनैश्चरम् पादयो: । एतानि न्यासविधिं कृत्वा पश्चात कालात्मका: शनै पाठं कुर्यात् ।
यदि श्लोक 11 से 14 तक का पाठ ना भी किया जाए तो कोई हर्ज नहीं होगा क्योंकि इन श्लोकों में विनियोग आदि ही दिया गया है जिनका यहाँ आरंभ में ही वर्णन कर दिया गया है.
नीलाद्रिशोभान्वित दिव्य मूर्ति: खड्गी त्रिदण्डी शरचापहस्त: ।
शम्भुर्महाकाल-शनि: त्रिपुरार्रिजयत्य शेष असुर नाशकारी ।।1।।
मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगत् हितम् ।।2।।
पार्वती उवाच
भगवन् ! देवदेवेश ! भक्ताअनुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ।।3।।
तदेव त्वं महाबाहो ! लोकानां हितकारम् ।
तव मूर्तिप्रभेदस्य महाकालस्य साम्प्रतम् ।।4।।
शनैर्मृत्युंजय स्तोत्रं ब्रूहि मे नेत्र जन्मन: ।
अकाल मृत्युहरणमsपमृत्यु निवारणम् ।।5।।
शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् ।
प्रतिनाम चतुर्थ्यन्तं नमोsन्तं मनुनायुतम् ।।6।।
ईश्वर उवाच
नित्ये प्रियतमे गौरि सर्वलोकहितेरते ।
गुह्याद्गुह्यतमं दिव्य सर्वलोक उपकारकम् ।।7।।
शनिमृत्युंजयस्तोत्रं प्रवक्ष्यामि तवा Sधुना ।
सर्वमंगलमांगल्य सर्व – शत्रु विमर्दनम् ।।8।।
सर्व रोगप्रशमनं सर्वआपदविनिवारणम् ।
शरीरआरोग्यकरणम् आयुर्वद्धिकरं नृणाम् ।।9।।
यदि भक्तासि मे गौरी गोपनीयं प्रयत्नत: ।
गोपितं सर्वतन्त्रेषु तच्छृणुष्व महेश्वरी ! ।।10।।
ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ।।11।।
गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदिन्यसेत् महाकालं गुह्ये कृशतनुं न्यसेत् ।।12।।
जान्वो स्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधिं कृत्वा पश्चात् कालात्मन: शनै: ।।13।।
न्यासं ध्यानं प्रवक्ष्यामि तनौ ध्यात्वा पठेन्नर: ।
कल्पादियुगभेदांश्च करांगन्यासरुपिण: ।।14।।
कालात्मनोन्यसेद् गात्रे मृत्युंजय ! नमोSस्तुते ।
मन्वन्तराणि सर्वाणि महाकालस्वरूपिण: ।।15।।
भावयेत्प्रति प्रत्यंगे महाकालाय ते नम: ।
भावयेत् प्रभवाद्यब्दान् शीर्षे कालजिते नम: ।।16।।
नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवो: ।
सौरये च नमस्तेSस्तु गण्डयोर्विन्यसेद्त्रृत् न् ।।17।।
श्रावणं भावयेद्क्ष्णो नम: कृष्णनिभाय च ।
महोग्राय नमो भाद्रं तथा श्रवणयोर्न्यसेत् ।।18।।
नमो वै दुर्निरीक्ष्याय चाश्र्विनं विन्यसेन् मुखे।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ।।19।।
मार्गशीर्ष न्यसेद् बाहर्वोमहारौद्राय ते नम: ।
ऊर्ध्वलोकनिवासाय पौषं तु हृदये न्यसेत् ।।20।।
नम: कालप्रबोधाय माघं वै चौदरे न्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेद्वै-फाल्गुनं तथा ।।21।।
ऊर्वोर्न्यसेच्चैत्रमासं नम: शिवोद्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नम: संवर्तकाय च ।।22।।
जंघर्योभावयेज्ज्येष्ठं भैरवाय नम-स्तथा ।
आषाढ़ पाद्योश्चैव शनये च नम-स्तथा ।।23।।
कृष्णपक्षं च क्रूराय नम: आपाद-मस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ।।24।।
न्यसेन् मूलं पादयोश्र्च ग्रहाय शनये नम: ।
नम: सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत् ।।25।।
(इस श्लोक में तोयं, पूर्वाषाढ़ा नक्षत्र से संबंधित है)
न्यसेत्-गुल्फद्वये विश्वं नम: शुष्कतराय च ।
श्रवणं भावयेज्जंघोभये शिष्टतमाय ते ।।26।।
(इस श्लोक में विश्वं, उतराषाढ़ा नक्षत्र से संबंधित है)
जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नम: ।
ऊरुद्वये वारुणर्क्षं न्यसेत् कालभृते नम: ।।27।।
(इस श्लोक में वारुणर्क्षं, शतभिषा नक्षत्र से संबंधित है)
पूर्वभाद्रं न्यसेन्मेढ्रे जटा-जूट-धराय च ।
पृष्ठे उत्तर-भाद्रं च करालाय नमस्तथा ।।28।।
रेवतीं च न्यसेन्नाभौ नमो मन्दचराय च ।
न्यसेद्Sश्विन्यौ गर्भदेशे नम: श्यामतराय च ।।29।।
नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्यसेत् कृर्त्तिकां हृदये नमस्तैलप्रियाय च ।।30।।
रोहिणीं भावयेधस्ते नमस्ते खड्ग-धारिणे ।
मृगं न्यसेद्वामस्ते त्रिदण्डोल्लसिताय च ।।31।।
दक्षार्द्धे भावयेद्रौद्र नमो वै प्राणधारिणे ।
पुनर्वसुमर्द्धवामे नमो वै चापधारिणे ।।32।।
पुष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
अश्लेषा न्यसेद्वामबाहौ चोग्रचापाय ते नम: ।।33।।
मघां विभावयेत् कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्भगर्क्ष च नम: क्रूरग्रहाय च ।।34।।
भावयेद् दक्षनासायामSर्यमाणश्च योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नम: ।।35।।
चित्रा न्यसेद्दक्षकर्णे नमो कृशनान्नप्रियाय च ।
स्वाति न्यसेद् वामकर्णे नमो ब्रूह मयाय च ।।36।।
विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
अनुराधां वामनेत्रे नमस्ते क्रूरदृष्टये ।।37।।
ज्येष्ठां न्यसेत् नासाग्रे सर्वज्येष्ठाय ते नम: ।
विष्कुम्भं भावयेच्छीर्ष-सन्धौ कालाय ते नम: ।।38।।
प्रीतियोगं भ्रुवो: सन्धौमहामन्द ! नमोsस्तुते ।
नेत्रयो: सन्धवायुष्मानयोगं भीष्माय ते नम: ।।39।।
सौभाग्यं भावयेन् नासासन्धौ फलाशनाय च ।
शोभनं भावयेत् कर्णं सन्धौ पुण्यात्मने नम: ।।40।।
नम: कृष्णा यातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मासदेहाय सुकर्माणं शिरोधरे ।।41।।
धृतिं न्यसेद् दक्षबाहौ पृष्ठे छाया-सुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नम: ।।42।।
यत्कूर्परे न्यसेद् गण्डे नित्यानन्दाय ते नम: ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ।।43।।
ध्रुवं तदंगुलीमूलसन्धौ कृष्णाय ते नम: ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ।।44।।
हर्षणं तन्मूलसन्धौ भूतसन्तापिने नम: ।
तत्कर्पूरे न्यसेद्वज्रं सानन्दाय नमोSस्तुते ।।45।।
सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नम: ।
व्यतीपात कराग्रेषु न्यसेत् कालकृते नम: ।।46।।
वरीयान् सं दक्षपार्श्वसन्धौ कालात्मने नम: ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोSस्तुते ।।47।।
न्यसेद् दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिसिद्धिं महादेवाय ते नम: ।।48।।
साध्यं न्यसेच्च तद्गुल्फसन्धौ घोराय ते नम: ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नम: ।।49।।
न्यसेद्वामोरुसन्धौ च शुक्लकालविदे नम: ।
ब्रह्मयोगं च तज्जानौ न्यसेत् सत् योगिने नम: ।।50।।
ऎन्द्रं तद्गुल्फसन्धौ च योगाSधीशाय ते नम: ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम् ।।51।।
चर्मणि बवकरणं भावयेद्यज्ञिने नम: ।
बालवं भावयेद्रक्ते संहारक ! नमोSस्तुते ।।52।।
कौलवं भावयेदस्थिने नमस्ते सर्वभक्षिणे ।
तैतिलं भावयेन्मांसे आममांसप्रियाय ते ।।53।।
गरं न्यसेद्वसायां च सर्वग्रासाय ते नम: ।
न्यसेत्वणिजं मज्जायां सर्वान्तक ! नमोSस्तुते ।।54।।
वीर्येभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पंच च ।।55।।
मुहूर्ताश्च दक्षपादनखेशु भावयेन् नम: ।
खगेशाय च खस्थाय खेचराय स्वरूपिणे ।।56।।
पुरुहूतशतमखे विश्ववैधो विधूंस्तथा ।
मुहूर्ताश्च वामपादनखेषु भावयेन्नम: ।।57।।
सत्यव्रताय सत्याय नित्यसत्याय ते नम: ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोSस्तुते ।।58।।
वन्हिनक्तं चरांश्चैव वरुण अर्यम् योनिकान् ।
मुहूर्ताश्च दक्षहस्तस्तनेषु भावयेन् नम: ।।59।।
लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ।।60।।
वामहस्तस्तनेष्वन्त्यवर्णेशाय नमोSस्तुते ।
गिरिशाहिर्बुध्न्यपूषा जयद्दस्त्रांश्च भावयेत् ।।61।।
राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशिनां फलदात्रे नमोSस्तुते ।।62।।
यमाग्निचन्द्रादितिकविघृतंश्च विभायेत् ।
ऊर्ध्वहस्तदक्षनखेष्वन्त्य कालाय ते नम: ।।63।।
तुलोच्चस्थाय सौम्याय नक्र कुम्भगृहाय च ।
समीरत्वष्ट जीवांश्च विष्णुतिग्म द्युतीन् न्यसेत् ।।64।।
ऊर्ध्ववाम-हस्त-नखेष्वन्य ग्रह-निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहु सखाय च ।।65।।
रविवारं ललाटे च न्यसेद्भीमदृषे नम: ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ।।66।।
भौमवारं न्यसेत् स्वान्ते नमो ब्रह्मस्वरूपिणे ।
मेढ्रे न्यसेत् सौम्यवारं नमो जीवस्वरूपिणे ।।67।।
वृषणे गुरुवारं च नमो मन्त्रस्वरूपिणे ।
भृगुवारं मलद्वारे नम: प्रलयकारिणे ।।68।।
पादयो: शनिवारं च निर्मांसाय नमोSस्तुते ।
घटिकां न्यसेत् केशेषु नमस्ते सूक्ष्म-रुपिणे ।।69।।
कालरूपिन् नमस्तेSस्तु सर्वपाप-प्रणाशक ! ।
त्रिपुरस्य वधार्थाय शम्भुजाताय ते नम: ।।70।।
नम: कालशरीराय कालपुरुषाय ते नम: ।
कालहेतो ! नमस्तुभ्यं कालानलाय वै नम: ।।71।।
अखण्ड-दण्ड-मानाय त्वाम्Sनाध्यंताय वै नम: ।
कालदेवाय कालाय कालकालाय ते नम: ।।72।।
निमेषादिमहाकल्पं-कालरूपं च भैरवम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।73।।
दातारं सर्वभव्यानां भक्तानामSभयंकरम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।74।।
कर्त्तारं सर्वदु:खानां दुष्टानां भयवर्धनम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।75।।
हर्त्तारं ग्रहजातानां फलानामाघकारिणाम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।76।।
सर्वेषामेव भूतानां सुखद शान्तिमव्ययम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।77।।
कारणं सुखदु:खानां भावाSभावस्वरूपिणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।78।।
अकालमृत्यु-हरणम् अपमृत्यु-निवारणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।79।।
कालरूपेण संसारं भक्षयन्तं महाग्रहम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।80।।
दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीघ्रलोचनम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।81।।
ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ।।82।।
कालस्य वशगा: सर्वे न काल: कस्यचिद्वश: ।
तस्मात्त्वां कालपुरुषं प्रणतोSस्मि शनैश्चरम् ।।83।।
कालदेव जगत्सर्वं काल एव विलीयते ।
कालरूप: स्वयं शम्भु: कालात्मा ग्रहदेवता ।।84।।
चण्डीशो रुद्रडाकिन्या-क्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्या समारुढो रसाधिप: ।।85।।
चण्डीश: शुक्रसंयुक्तो जिह्वया ललित: पुन: ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युत-द्युत: ।।86।।
नमोSन्तो मनुरित्येष शनितुष्टिकर: शिवे ।
आद्यन्तेष्टोत्तरशतं मनु-मेनं जपेन्नर: ।।87।।
य पठेच्छ्णुयाद्वाSपि ध्यात्वा सम्पूज्य भक्तित: ।
तस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये ! ।।88।।
ज्वरा: सर्वे विनश्यन्ति दद्रु विस्फोटकच्छुका: ।
दिवा सौरि स्मरेत् रात्रौ महाकालं यजन् पठेत् ।।89।।
जन्मर्क्षे च यदा सौरिर्जपेदेतत् सहस्रकम् ।
वैधगे वामवेधे वा जपेदर्द्धसहस्रकम् ।।90।।
द्वितीये द्वादशे मन्दे तनो वा चाष्टमेSपि वा ।
तत्तद्राशौ भवेद्यावत् पठेत्तावद्दीनावधि ।।91।।
चतुर्थे दशमे वाSपि सप्तमे नवपंचमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ।।92।।
गुरुलाघवज्ञानेन पठेदावृतिसंख्यया ।
शतमेकं त्रयं वाSथ शतयुग्मं कदाचन ।।93।।
आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथ्वा जल सन्निधौ ।।94।।
पुण्यक्षेत्रेSश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ।।95।।
श्रोत्तव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युंजयाभिधम् ।।96।।
कालक्रमेण कथितं न्यास-क्रम-समन्वितम् ।
प्रात:काले शुचिर्भूत्वा पूजायां च निशामुखे ।।97।।
पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेSथवा ।।98।।
नाSकाले मरणं तेषां नाअपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविन: ।।99।।
नाSत: परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन् मयोदितम् ।।100।।
तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
कथनीयं महादेवि नैवअभक्तस्य कस्यचित् ।।101।।
इस स्तोत्र का पाठ करने या सुनने से अकाल मृत्यु टल जाती है और पाठ करने वाला सौ वर्ष की आयु पाता है. हर प्रकार की शारीरिक एवं मानसिक व्याधि से छुटकारा होता है.
इस स्तोत्र का पाठ महाकालेश्वर मंदिर में करना चाहिए या द्वादशज्योतिर्लिंग स्थान में या नदी के पास या पुण्य क्षेत्र में अश्वत्थ (पीपल) वृक्ष के नीचे करना चाहिए. तिल्ली के तेल से नियमपूर्वक मौन रहकर, एक समय आहार लेकर पाठ करना चाहिए. यह पूजा तथा पाठ संध्या समय में करने पर संसार के सभी सुखों की प्राप्ति होती है. यह स्तोत्र स्वयं में ब्रह्मास्त्र के समान है. ब्रह्मचर्य के द्वारा मौन रहकर नियम एवं भक्ति से जो भी इसे सुनता या करता है उसे अपमृत्यु का भय नहीं होता.