दोर्भिर्युक्ताश्चतुर्भि: स्फटिकमणिमयीमक्षमालां दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण ।
या सा कुन्देन्दुशंखस्फटिकमणिनिभा भासमाना समाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ।।11।।
आरूढ़ा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं
वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या ।
सा वीणां वादयन्ती स्वकरकरजपै: शास्त्रविज्ञानशब्दै:
क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ।।2।।
श्वेतपद्मासना देवी श्वेतगन्धानुलेपना ।
अर्चिता मुनिभि: सर्वैरऋषिभि: स्तूयते सदा।।3।।
एवं ध्यात्वा सदा देवीं वांछितं लभते नर: ।।4।।
विनियोग:
ऊँ अस्य श्रीसिद्धसरस्वतीस्तोत्रमन्त्रस्य मार्कण्डेय ऋषि:,
स्त्रग्धरा अनुष्टुप् छन्द:, मम वाग्विलाससिद्ध्यर्थं पाठे विनियोग:।
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगव्द्यापिनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।1।।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा।।2।।
ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्याड़्घ्रिपद्मे।
पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि
प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे।।3।।
ऎं ऎं ऎं दृष्टमन्त्रे कमलभवमुखाम्भोजभूते स्वरूपे
रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे।
न स्थूले नैव सूक्ष्मेSप्यविदितविभवे नापि विज्ञानतत्वे
विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे।।4।।
ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम्।
विद्ये वेदान्तवेद्ये परिणतपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतस्वरूपे भव मम वरदा शारदे शुभ्रहारे।।5।।
धीं धीं धीं धारणाख्ये धृतिमतिनतिभिर्नामभि: कीर्तनीये
नित्येSनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे।
पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे
मातर्मात्रार्धतत्त्वे मतिमतिमतिदे माधवप्रीतिमोदे।।6।।
ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते
संतुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये।
मोहे मुग्धप्रवाहे कुरु मम विमतिध्वान्तविध्वंससमीडे
गीर्गौर्वाग्भारति त्वं कविवररसनासिद्धिदे सिद्धिसाध्ये।।7।।
स्तौमि त्वां त्वां च वन्दे मम खलु रसनां नो कदाचित्त्यजेथा
मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम्।
मा मे दु:खं कदाचित क्वचिदपि विषयेSप्यस्तु मे नाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्माSस्तु कुण्ठा कदापि।।8।।
इत्येतै: श्लोकमुख्यै: प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मुक्तकण्ठ: ।
स स्यादिष्टार्थलाभै: सुतमिव सततं पाति तं सा च देवी
सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति।।9।।
निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोध:
कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात्।
दीर्घायुर्लोकपूज्य: सकलगुणनिधि: संततं राजमान्यो
वाग्देव्या: सम्प्रसादात् त्रिजगति विजयी जायते सत्सभासु।।10।।
ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिष:।
सारस्वतो जन: पाठात् सकृदिष्टार्थलाभवान्।।11।।
पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया।
अविच्छिन्न: पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम्।।12।।
सर्वपापविनिर्मुक्त: सुभगो लोकविश्रुत:।
वांछितं फलमाप्नोति लोकेSस्मिन् नात्र संशय:।।13।।
ब्रह्मणेति स्वयं प्रोक्तं सरस्वत्या: स्तवं शुभम्।
प्रयत्नेन पठेन्नित्यं सोSमृतत्वाय कल्पते ।।14।।
।। इति श्रीमद्ब्रह्मणा विरचितं श्रीसिद्धसरस्वतीस्तोत्रं सम्पूर्णम्।।