अंगारकः शक्तिधरो लोहिताङ्गो धरासुतः|
कुमारो मङ्गलो भौमो महाकायो धनप्रदः||1||
ऋणहर्ता दृष्टिकर्ता रोगकृद्रोगनाशनः|
विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः||2||
सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः|
लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः||3|
रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः|
नामान्येतानि भौमस्य यः पठेत्सततं नरः||4||
ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति|
धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ||
वंशोद्द्योतकरं पुत्रं लभते नात्र संशयः||5||
योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः|
सर्वा नश्यति पीडा च तस्य ग्रहकृता ध्रुवम्||6||
।।इति श्री स्कान्दपुराणे श्री अङ्गारकस्तोत्रं सम्पूर्णम्।।