श्री सूर्यमण्डलात्मकं स्तोत्रं

Posted by

images sunनम: सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे विरंचिनारायणशंकरात्मने ।।1।।

यन्मण्डलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम ।
दारिद्रयदु:खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम ।।2।।

यन्मण्डलंदेवगणै: सुपूजितं विप्रै: स्तुतं भावनमुक्तिकोविदम ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम ।।3।।

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरुपम ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यं ।।4।।

यन्मण्डलं गूढ़मतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्य़ं ।।5।।

यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजु:सामसु संप्रगीतम ।
प्रकाशितं येन च भूर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यं ।।6।।

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघ: ।
यद्योगिनो योगजुषां च संघ: पुनातु मां तत्सवितुर्वरेण्यं ।।7।।

यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्व कुर्यादिह मर्त्यलोके ।
यत्काल कल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्य़ं ।।8।।

यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम ।
यस्मिजंगत्संहरतेsखिलं च पुनातु मां तत्सवितुर्वरेण्यं ।।9।।

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्वम ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यं ।।10।।

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघा: ।
यन्मण्डलं वेदविद: स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यं ।।11।।

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यं ।
तत्स्र्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यं ।।12।।

2 comments

Leave a Reply