शिवसहस्त्रनाम स्तोत्रम

  शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥   नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र। येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥   नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरये॥   वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणम् वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम्। वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियम् वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥  …