श्रीकनकधारास्तोत्रम् – Kanakdhara Stotram – 22 Slokas in Praise of Goddess Lakshmi

Posted by

अंगं हरे: पुलकभूषणमाश्रयन्ती

भृंगांगनेव मुकुलाभरणं तमालम्

अंगीकृताखिलविभूतिरपांगलीला

मांगल्यदास्तु मम मंगलदेवताया: ।।1।।

 

मुग्धा मुहुर्विदधती वदने मुरारे:

प्रेमत्रपाप्रणिहितानि गतागतानि ।

माला दृशोर्मधुकरीव महोत्पले या

सा मे श्रियं दिशतु सागरसम्भवाया:।।2।।

 

विश्वामरेन्द्रपदविभ्रमदानदक्ष –

मानन्दहेतुरधिकं मुरविद्विषोsपि।

ईषन्निषीदतु मयि क्षणमीक्षणार्ध –

मिन्दीवरोदरसहोदरमिन्दिराया:।।3।।

 

आमीलिताक्षमधिगम्य मुदा मुकुन्द –

मानन्दकन्दमनिमेषमनंगतन्त्रम्

आकेकरस्थितकनीनिकपक्ष्मनेत्रं

भूत्यै भवेन्मम भुजंगशयांनाया:।।4।।

 

बाह्वन्तरे मधुजित: श्रितकौस्तुभे या

हारावलीव हरिनीलमयी विभाति।

कामप्रदा  भगवतोsपि कटाक्षमाला

कल्याणमावहतु मे कमलालयाया:।।5।।

कालाम्बुदालिललितोरसि कैटभारे –

र्धाराधरे स्फुरति या तडिदंगनेव ।

मातु: समस्तजगतां महनीयमूर्त्ति –

र्भद्राणि मे दिशतु भार्गवनन्दनाया:।।6।।

 

प्राप्तं पदं प्रथमत: किल यत्प्रभावान्

मांगल्यभाजि मधुमाथिनि मन्मथेन ।

मय्यापतेत्तदिह मन्थरमीक्षणार्धं

मन्दालसं च मकरालयकन्यकाया:।।7।।

 

दद्याद् दयानुपवनो द्रविणाम्बुधारा –

मस्मिन्नकिंचनविहंगशिशौ विषण्णे।

दुष्कर्मघर्ममपनीय चिराय दूरं

नारायणप्रणयिनीनयनाम्बुवाह:।।8।।

 

इष्टा विशिष्टमतयोsपि यया दयार्द्र –

दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते।

दृष्टि: प्रहृष्टकमलोदरदीप्तिरिष्टां

पुष्टिं कृषीष्ट मम पुष्करविष्टराया:।।9।।

 

गीर्देवतेति गरुड़ध्वजसुन्दरीति

शाकम्भरीति शशिशेखरवल्लभेति।

सृष्टिस्थितिप्रलयकेलिषु संस्थितायै

तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै।।10।।

 

श्रुत्यै नमोsस्तु शुभकर्मफलप्रसूत्यै

रत्यै नमोsस्तु रमणीयगुणार्णवायै।

शक्त्यै नमोsस्तु शतपत्रनिकेतनायै

पुष्ट्यै नमोsस्तु पुरुषोत्तमवल्लभायै।।11।।

 

नमोsस्तु नालीकनिभाननायै

नमोsस्तु दुग्धोदधिजन्मभूत्यै।

नमोsस्तु सोमामृतसोदरायै

नमोsस्तु नारायणवल्लभायै।।12।।

 

नमोऽस्तु हेमाम्बुजपीठिकायै

नमोऽस्तु भूमण्डलनायिकायै ।

नमोऽस्तु देवादिदयापरायै

नमोऽस्तु शार्ङ्गायुधवल्लभायै।।13।।

 

नमोऽस्तु देव्यै भृगुनन्दनायै

नमोऽस्तु विष्णोरुरसि स्थितायै ।

नमोऽस्तु लक्ष्म्यै कमलालयायै

नमोऽस्तु दामोदरवल्लभायै।।14।।

 

नमोऽस्तु कान्त्यै कमलेक्षणायै

नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।

नमोऽस्तु देवादिभिरर्चितायै

नमोऽस्तु नन्दात्मजवल्लभायै।।15।।

 

सम्पत्कराणि सकलेन्द्रियनन्दनानि

साम्राज्यदानविभवानि सरोरुहाक्षि।

त्वद्वन्दनानि दुरिताहरणोद्यतानि

मामेव मातरनिशं कलयन्तु मान्ये।।16।।

 

यत्कटाक्षसमुपासनाविधि:

सेवकस्य सकलार्थसम्पद:।

संतनोति वचनांगमानसै –

स्त्वां मुरारिहृदयेश्वरीं भजे।।17।।

 

सरसिजनिलये सरोजहस्ते

धवलतमांशुकगन्धमाल्यशोभे।

भगवति हरिवल्लभे मनोज्ञे

त्रिभुवनभूतिकरि प्रसीद मह्यम् ।।18।।

 

दिग्घस्तिभि: कनककुम्भमुखावसृष्ट –

स्वर्वाहिनीविमलचारुजलप्लुतांगीम् ।

प्रातर्नमामि जगतां जननीमशेष –

लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ।।19।।

 

कमले कमलाक्षवल्लभे

त्वं करुणापूरतरंगितैरपांगै:।

अवलोकय मामकिंचनानां

प्रथमं पात्रमकृत्रिमं दयाया:।।20।।

 

देवि प्रसीद जगदीश्वरि लोकमातः

कल्याणगात्रि कमलेक्षणजीवनाथे ।

दारिद्र्यभीतिहृदयं शरणागतं माम्

आलोकय प्रतिदिनं सदयैरपाङ्गैः।।21।।

 

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं

त्रयीमयीं   त्रिभुवनमातरं रमाम् ।

गुणाधिका गुरुतरभाग्यभागिनो

भवन्ति ते भुवि बुधभाविताशया:।।22।।
।।इति श्रीमच्छंकराचार्यविरचितं कनकधारास्तोत्रं सम्पूर्णम्।।