दशमयीबालात्रिपुरसुन्दरीस्तोत्रम्

on

श्रीकाली बगलामुखी च ललिता धूम्रावती भैरवी

मातंगी भुवनेश्वरी च कमला श्रीवज्रवैरोचनी।

तारा पूर्वमहापदेन कथिता विद्या स्वयं शम्भुना

लीलारूपमयी च देशदशधा बाला तु मां पातु सा।।1।।

 

श्यामां श्यामघनावभासरुचिरां नीलालकालड़्कृतां

बिम्बोष्ठीं बलिशत्रुवन्दितपदां बालार्ककोटिप्रभाम्।

त्रासत्राणकृपाणमुण्डदधतीं भक्ताय दानोद्यतां

वन्दे संकटनाशिनीं भगवतीं बालां स्वयं कालिकाम्।।2।।

 

ब्रह्मास्त्रां सुमुखीं बकारविभवां बालां बलाकीनिभां

हस्तन्यस्तसमस्तवैरिरसनामन्ये दधानां गदाम्।

पीतां भूषणगन्धमाल्यरुचिरां पीताम्बरांगा वरां

वन्दे संकटनाशिनीं भगवतीं बालां च बगलामुखीम्।।3।।

 

बालार्कश्रुतिभास्करां त्रिनयनां मन्दस्मितां सन्मुखीं

वामे पाशधनुर्धरां सुविभवां बाणं तथा दक्षिणे।

पारावारविहारिणीं परमयीं पद्मासने संस्थितां

वन्दे संकटनाशिनीं भगवतीं बालां स्वयं षोडशीम्।।4।।

 

दीर्घां दीर्घकुचामुदग्रदशनां दुष्टच्छिदां देवतां

क्रव्यादां कुटिलेक्षणां च कुटिलां काकध्वजां क्षुत्कृशाम्।

देवीं सूर्पकरां मलीनवसनां तां पिप्पलादार्चितां

बालां संकटनाशिनीं भगवतीं ध्यायामि धूमावतीम्।।5।।

 

उद्यत्कोटिदिवाकरप्रतिभटां बालार्कभाकर्पटां

मालापुस्तकपाशमड़्कुशधरां दैत्येन्द्रमुण्डस्रजाम्।

पीनोत्तुंगपयोधरां त्रिनयनां ब्रह्मादिभि: संस्तुतां

बालां संकटनाशिनीं भगवतीं श्रीभैरवीं धीमहि।।6।।

 

वीणावादनतत्परां त्रिनयनां मन्दस्मितां सन्मुखीं

वामे पाशधनुर्धरां तु निकरे बाणं तथा दक्षिणे।

पारावारविहारिणीं परमयीं ब्रह्मासने संस्थितां

वन्दे संकटनाशिनीं भगवतीं मातंगिनीं बालिकाम्।।7।।

 

उद्यत्सूर्यनिभां च इन्दुमुकुटामिन्दीवरे संस्थितां

हस्ते चारुवराभयं च दधतीं पाशं तथा चाड़्कुशम्।

चित्रालड़्कृतमस्तकां त्रिनयनां ब्रह्मादिभि: सेवितां

वन्दे संकटनाशिनीं च भुवनेशीमादिबालां भजे।।8।।

 

देवीं कांचनसंनिभां त्रिनयनां फुल्लारविन्दस्थितां

बिभ्राणां वरमब्जयुग्ममभयं हस्तै: किरीटोज्ज्वलाम्।

प्रालेयाचलसंनिभैश्च करिभिराषिण्च्यमानां सदा

बालां संकटनाशिनीं भगवतीं लक्ष्मीं भजे चेन्दिराम्।।9।।

 

सच्छिन्नां स्वशिरोविकीर्णकुटिलां वामे करे बिभ्रतीं

तृप्तास्यस्वशरीरजैश्च रुधिरै: सन्तपर्यन्तीं सखीम्।

सद्भक्ताय वरप्रदाननिरतां प्रेतासनाध्यासिनीं

बालां संकटनाशिनीं भगवतीं श्रीछिन्नमस्तां भजे।।10।।

 

उग्रामेकजटामनन्तसुखदां दूर्वादलाभामजां

कर्त्रीखड्गकपालनीलकमलान् हस्तैर्वहन्तीं शिवाम्।

कण्ठे मुण्डस्रजामं करालवदनां कण्जासने संस्थितां

वन्दे संकटनाशिनीं भगवतीं बालां स्वयं तारिणीम्।।11।।

 

मुखे श्रीमातंगी तदनुकिलतारा च नयने

तदन्तरगा काली भृकुटिसदने भैरवि परा।

कटौ छिन्ना धूमावती जय कुचेन्दौ कमलजा

पदांशे ब्रह्मास्त्रा जयति किल बअल दशमयी।।12।।

 

विराजन् मन्दारद्रुमकुसुमहारस्तनतटी

परित्रासत्राणास्फटिकगुटिकापुस्तकवरा ।

गले रेखास्तिस्रो गमकगतिगीतैकनिपुणा

सदा पीता हाला जयति किल बाला दशमयी।।13।।

 

।।इति श्रीमेरुतन्त्रे दशमयीबालात्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम्।।

 

Advertisements