भगवत्स्तुति:

Posted by

भीष्म उवाच – Bhishma Uvach

इति  मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभूम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं   प्रकृतिमुपेयुषि   यद्भवप्रवाह: ।।1।।

 

त्रिभुवनकमनं तमालवर्णं     रविकरगौरवराम्बरं      दधाने ।

वपुरलककुलावृताननाब्जं    विजयसखे  रतिरस्तु मेSनवद्या ।।2।।

 

युधि  तुरगरजोविधूम्रविष्वक्-कचलुलितश्रमवार्यलड्कृतास्ये ।

मम निशितशरैर्विभिद्यमान-त्वचि विलसत्कवचेSस्तु कृष्ण आत्मा।।3।।

 

सपदि  सखिवचो  निशम्य  मध्ये निजपरयोर्बलयो  रथं  निवेश्य ।

स्थितवति  परसैनिकायुरक्ष्णा  हृतवति  पार्थसखे  रतिर्ममास्तु ।।4।।

 

व्यवहितपृतनामुखं  निरीक्ष्य  स्वजनवधाद्विमुखस्य  दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया   य-श्चरणरति:  परमस्य तस्य मेSस्तु ।।5।।

 

स्वनिगममपहाय    मत्प्रतिज्ञा – मृतमधिकर्तुमवप्लुतो    रथस्थ: ।

धृतरथचरणोSभ्ययाच्चलद्गु – र्हरिरिव  हन्तुमिभं  गतोत्तरीय: ।।6।।

 

शितविशिखहतो   विशीर्णदंश:  क्षतजपरिप्लुत  आततायिनो  मे ।

प्रसभमभिससार  मद्वधार्थं स भवतु  मे भगवान् गतिर्मुकुन्द: ।।7।।

 

विजयरथकुटुम्ब   आत्ततोत्रे   धृतहयरश्मिनि   तच्छ्रियेक्षणिये ।

भगवति रतिरस्तु मे मुमूर्षो – र्यमिह निरीक्ष्य हता गता: सरूपम् ।।8।।

 

ललितगतिविलासवल्गुहास – प्रणयनिरीक्षणकल्पितोरुमाना: ।

कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन्किल स्य गोपवध्व: ।।9।।

 

मुनिगणनृपवर्यसड्कुलेSन्त: – सदसि  युधिष्ठिरराजसूय  एषाम् ।

अर्हणमुपपेद ईक्षणीयो  मम    दृ्शिगोचर   एष   आविरात्मा ।।10।।

 

तमिममहमजं  शरीरभाजां  हृदि  हृदि  धिष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव   नैकधार्कमेकं   समधिगतोSस्मि   विधूतभेदमोह:।।11।।

 

इति श्रीमद्भागवते महापुराणे प्रथमस्कन्दे नवमेेSध्याये भीष्मकृता भगवत्स्तुति: सम्पूर्णा