ललितापंचकम्

Posted by

lalita Devi

प्रात: स्मरामि ललितावदनारविन्दं

विम्बाधरं पृथुलमौक्तिकशोभिनासम् ।

आकर्णदीर्घनयनं मणिकुण्डलाढ़्यं

मन्दस्मितं मृगमदोज्ज्वलभालदेशम् ।।1।।

 

प्रातर्भजामि ललिताभुजकल्पवल्लीं

रक्तांगुलीयलसदंगुलिपल्लवाढ़्याम् ।

माणिक्यहेमवलयांगदशोभमानां

पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ।।2।।

 

प्रातर्नमामि ललिताचरणारविन्दं

भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।

पद्मासनादिसुरनायकपूजनीयं

पद्मांकुशध्वजसुदर्शनलांछनाढ़्यम् ।।3।।

 

प्रात: स्तुवे परशिवां ललितां भवानीं

त्रय्यन्तवेद्यविभवां करुणानवद्याम्

विश्वस्य सृष्टिविलयस्थितिहेतुभूतां

विद्येश्वरीं निगमवाड़्मनसातिदूराम् ।।4।।

 

प्रातर्वदामि ललिते तव पुण्यनाम

कामेश्वरीति कमलेति महेश्वरीति ।

श्रीशाम्भवीति जगतां जननी परेति

वाग्देवतेति वचसा त्रिपुरेश्वरीति ।।5।।

 

य: श्लोकपंचकमिदं ललिताम्बिकाया:

सौभाग्यदं सुललितं पठति प्रभाते ।

तस्मै ददाति ललिता झटिति प्रसन्ना

विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ।।6।।

 

।।इति श्रीमच्छंकराचार्यकृतं ललितापंचकं सम्पूर्णम्।।

 

One comment

Leave a Reply