Site icon Astroprabha

॥ सावित्री कृत यम स्तोत्रं / यमाष्टक / श्री यमाष्टकम्

Advertisements

श्री यमाष्टकम् 

यह सावित्री द्वारा यमराज की स्तुति के लिए गाया गया स्तोत्र है, जिसके पाठ से अकाल मृत्यु का भय दूर होता है और पापों का नाश होता है।

सावित्र्युवाच: 

तपसा धर्ममाराध्य पुष्करे भास्करः पुरा।

धर्मं सूर्यः सुतं प्राप धर्मराजं नमाम्यहम् ॥ १ ॥

समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः ।

अतो यन्नाम शमनं धर्मराजं नमाम्यहम् ॥ २ ॥

येनान्तश्च कृतो विश्वे सर्वेषां जीविनां परम् ।

कर्मानुरूपकालेन तं कृतान्तं नमाम्यहम् ॥ ३ ॥

बिभर्ति दण्डं दण्ड्याय पापिनां शुद्धिहेतवे ।

नमामि तं दण्डधरं यः शास्ता सर्वकर्मणाम् ॥ ४ ॥

विश्वे यः कलयत्येव सर्वायुश्चापि सन्ततम् ।

अतीव दुर्निवार्य्यञ्च तं कालं प्रणमाम्यहम् ॥ ५ ॥

तपस्वी वैष्णवो धर्म्मी संयमी विजितेन्द्रियः ।

जीविनां कर्म्मफलदं तं यमं प्रणमाम्यहम् ॥ ६ ॥

स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां सदा ।

पापिनां क्लेशदो यस्तु पुण्यमित्रं नमाम्यहम् ॥ ७ ॥

यज्जन्म ब्रह्मणोंऽशेन ज्वलन्तं ब्रह्मतेजसा ।

यो ध्यायति परं ब्रह्म सूर्य्यपुत्रं नमाम्यहम् ॥ ८ ॥

Exit mobile version